|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.13. अध्यायः 013
Mahabharata - Sauptika Parva - Chapter Topics
कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम्॥ 1 ॥ तद्दर्शिना द्रौणिना अपाण्डवहेतोर्ब्रह्मशिरोस्त्रप्रयोगः॥ 2 ॥

Mahabharata - Sauptika Parva - Chapter Text
वैशम्पायन उवाच। 10-13-0x(5290)(64607)
एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः।
सर्वायुधवरोपेतमारुरोह रथोत्तमम्॥ 10-13-1(64608)
युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः।
उदितादित्यसङ्काशं सर्वरत्नविभूषितम्॥ 10-13-2(64609)
दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम्।
णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ॥ 10-13-3(64610)
विश्वकर्मकृता दिव्या रत्नधातुविभूषिता।
उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत॥ 10-13-4(64611)
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान्॥
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत॥ 10-13-5(64612)
अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्।
अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः॥ 10-13-6(64613)
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ।
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम्॥ 10-13-7(64614)
उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम्।
प्रतोदेन जवोपेतान्परमाश्वानचोदयत्॥ 10-13-8(64615)
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम्।
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च॥ 10-13-9(64616)
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम्।
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव॥ 10-13-10(64617)
ते समर्था महाबाहुं क्षणेन भरतर्षभ।
भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः॥ 10-13-11(64618)
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम्।
नाशक्नुवन्वारयितुं समेत्यापि महारथाः॥ 10-13-12(64619)
स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम्।
ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः।
यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान्॥ 10-13-13(64620)
स ददर्श महात्मानमुदकान्ते यशस्विनम्।
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह॥ 10-13-14(64621)
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम्।
रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके॥ 10-13-15(64622)
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः।
भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत्॥ 10-13-16(64623)
तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम्।
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ।
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत॥ 10-13-17(64624)
स तद्दिव्यमदीनात्मा परमास्रमचिन्तयत्।
जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना॥ 10-13-18(64625)
स तामापदमासाद्य दिव्यमस्त्रमुदैरयत्।
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान्।
अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम्॥ 10-13-19(64626)
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान्।
सर्वलोकप्रमोहार्थं तदस्रं प्रमुमोच ह॥ 10-13-20(64627)
ततस्तस्यामिषीकायां पावकः समजायत।
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्कयमोपमः॥ ॥ 10-13-21(64628)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि त्रयोधशोऽध्यायः॥ 13 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-13-19 अपाण्डवाय पाण़्डवानामभावाय॥ 10-13-13 त्रयोदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|